प्रसन्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसन्नः, त्रि, (प्रसीदतीति । प्र + सद् + गत्यर्थेति क्तः ।) निर्म्मलः । तत्पर्य्यायः । अच्छः २ । इत्यमरः । १ । १० । १४ ॥ (यथा, महाभारते । ४ । २७ । २४ । “रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणा- न्विताः । दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥”) सन्तुष्टः । इति मेदिनी । ने, ८६ ॥ (यथा, रघुः । ५ । १० । “अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ॥”)
