प्रसरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसरः, पुं, (प्र + सृ + भावादौ यथायथं अप् ।) तन्तुव्रणविटपादेर्व्विसर्पणम् । प्रकर्षेण निकटे सरणं सर्पणम् । तत्पर्य्यायः । विसर्पः २ । इत्य- मरभरतौ । ३ । २ । २३ ॥ (यथा, रघुः । १६ । २० । “तिरस्क्रियन्ते कृमितन्तुजालै- र्विच्छिन्नधूमप्रसरा गवाक्षाः ॥”) प्रणयः । वेगः । इति मेदिनी । रे, १८२ ॥ (यथा, कलाविलासे । १ । २१ । “इति विनयनम्रशिरसा तेन घचो युक्तमुक्त- मवधार्य्य । तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौ- ष्ठाग्रः ॥”) समूहः । इति शब्दरत्नावली ॥ (यथा, आर्य्या- सप्तशत्याम् । ५८९ । “स्तननूतननखलेखालम्बी तव घर्म्मविन्दु- सन्दोहः । आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥” प्रकृष्टसञ्चरणम् । यथा, -- “अत ऊर्द्ध्वं प्रसरं वक्ष्यामः । तेषामेभिरातङ्क- विशेषैः प्रकुपितानां पर्य्युषितकिण्वोदकपिष्ट- समवाय इवोद्रिक्तानां प्रसरो भवति तेषां वायु- र्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि रजोभूयिष्ठो रजश्च प्रवर्त्तकं सर्व्वभावानाम् । यथा महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्य्या- परेणोदकेन व्यामिश्रः सर्व्वतः प्रधावत्येवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वानेकधा प्रसरन्ति ।” इति सुश्रुते सूत्रस्थाने २१ अध्यायः ॥) युद्धम् । इति विश्वः । नाराचः । इति भूरिप्रयोगः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसरः [prasarḥ], 1 Going forward, advancing; सहसा विनयेन वारित- प्रसरः Ś.1.28.
Free or unimpeded motion, free scope; access or course; प्रतिषिद्धप्रसरेषु जाग्रतौ R.8.23;16. 2; लब्धप्रसरा Mu.3.5; H.1.186.
Spreading, diffusion, extension, expansion, dilation; दयितावलोकविकसन्- नयनप्रसरप्रणुन्नमिव वारिरुहम् Śi.9.71.
Extent, dimension, great quantity; त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत्प्रसरस्य सीमा Śi.3.35.
Prevalence, influence; समस्तापः कामं मनसिज- निदाघप्रसरयोः Ś.3.8.
A stream, flow, torrent, flood; पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः Gīt.11; स्नेहप्रसरसम्प्लुतः Bhāg.3.2.5.
A group, multitude.
War, battle.
An iron arrow.
Speed.
Affectionate solicitation.
(In medicine) Morbid displacement of the humours of the body.
Destruction, ruin.
Opportunity, room (अवकाश); यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे दिशेत् Rām.7.68.19.
Range (of the eye).-रम् (In music) A kind of dance.
