सामग्री पर जाएँ

प्रसवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसवः, पुं, (प्र + सू + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) गर्भमोचनम् । तत्पर्य्यायः । प्रसूतिः २ । इत्यमरः । ३ । २ । १० ॥ (यथा, रघुः । ३ । १२ । “पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥” गर्भग्रहणम् । यथा, मनुः । ९ । ७० । “यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात् सकृत्सकृदृतावृतौ ॥”) उत्पादः । (जन्म । यथा, रघुः । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणागुणानुबन्धित्वात्तस्य सप्रसवा इव ॥” “सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इव ।” इति तट्टीकायां मल्लिनाथः ॥) अप- त्यम् । (यथा, रघुः । ८ । ३० । “ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृनत्वमुपेयियान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥”) फलम् । कुसुमम् । इति मेदिनी । वे, ४२ ॥ (यथा, रघुः । ४ । २३ । हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ पशवः पक्षिणश्चैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुलस्य च विनिर्द्दिशेत् ॥ निर्व्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च पूज्याश्च ततो द्विजेन्द्राः । किमिच्छकैर्ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम् ॥” इति मात्स्ये अद्भुतशान्तिस्त्रीप्रसवविकृतो नाम २०९ अध्यायः ॥ * ॥ प्रसवाद्भुतत्वं यथा, -- “एको वृषस्त्रयो गावः सप्ताश्वा नवदन्तिनः । सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातकाः ॥” तिस्र इति वक्तव्ये छान्दसत्वात् त्रय इत्युक्तम् । सिंहप्रसूताश्च स्त्रियो बोध्याः । “भानौ सिंहगते चैव यस्य गौः संप्रसूयते । मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ * ॥ अत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥ ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥” व्याहृतिभिश्चायं होमः । “सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ॥” अपि च । “सिंहराशौ गते सूर्य्ये गोप्रसूतिर्यदा भवेत् । पौषे च महिषी सूते दिवैवाश्वतरी तथा ॥ तदानिष्टम्भवेत् किञ्चित् तच्छान्त्यै शान्तिकञ्चरेत् । अस्य वामेतिसूक्तेन तद्विष्णोरितिमन्त्रतः ॥ जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् । मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् । श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥” इत्यद्भुतसागरे नारदः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसवः [prasavḥ], 1 Begetting, generation, procreation, birth, production; प्रसवविकारो स्त्रीणां द्वित्रिचतुःप्रभृति संप्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसंक्षयो भवति Bṛi. S.

Child-birth, delivery, confinement; an in आसन्नप्रसवा.

Offspring, progeny, young ones, children; oft. at the end of comp.; केवलं वीरप्रसवा भूयाः U.1; Ku.7.87.

Source, origin, brith-place (fig. also); प्रसवः कर्मफलस्य भूरिणः Ki.2.43.

Flower, blossom; प्रसवविभूतिषु भूरुहां विरक्तः Śi.7.42; नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः Me.67; कुन्दप्रसवशिथिलं जीवितम् 113; R.9.28; Ku.1.55;4.14; Ś.5.9; Māl.9.27.31; U.2.2.

A fruit, product; यज्ञप्रसववर्जिताः Mb.12.18.46.

Ved. Extracting Soma juice; अपुत्रः प्रसवेनार्थी वनवासमुपावसत् Mb.13.4.6.

Setting in motion.

A current, stream.

Excitement, animation.

Enjoining, ordering.

Assistance, help.

pursuit, acquisition. -Comp. -उन्मुखः a. about to be delivered or confined; पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श R.3.12. -कालः the time of delivery or bringing forth. -गृहम् a lying-in-chamber.-धर्मिन् a. productive, prolific. -बन्धनम् the foot-stalk of a leaf or flower, peduncle. -वेदना, -व्यथा pangs of child-birth, throes. -स्थली a mother.

सथानम् a place for delivery.

a nest.

"https://sa.wiktionary.org/w/index.php?title=प्रसवः&oldid=359997" इत्यस्माद् प्रतिप्राप्तम्