प्रसादः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसादः, पुं, (प्र + सद् + घञ् ।) प्रसन्नता । नैर्म्मल्यम् । इत्यमरः । १ । ३ । १६ ॥ (यथा, प्रबोधचन्द्रोदये प्रस्तावनायाम् । “कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदघेः ॥”) अनुग्रहः । (यथा, रघुः । २ । ६८ । “तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥”) काव्यप्राणः । स्वास्थ्यम् । प्रसक्तिः । इति मेदिनी । दे, ३५ ॥ वैदर्भीरीतियुक्तकाव्यगुणः । तस्य लक्षणम् । ग्राम्यशब्दभिन्नव्यक्तार्थपद- वत्त्वम् । यथा, -- “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः । व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥” इति काव्यचन्द्रिका ॥ * ॥ (तथा च साहित्यदर्पणे ८ परिच्छेदे । “चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च ॥”) देवनिवेदितद्रव्यं गुरूणां भुक्तावशेषश्च । यथा, “आसीद्वंशध्वजो राजा प्रजापालनतत्परः । प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥” इति स्कान्दे रेवाखण्डे सत्यनारायणव्रतकथा ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसादः [prasādḥ], 1 Favour, kindness, condescension, propitiousness; कुरु दृष्टिप्रसादम् 'be pleased to show yourself'; इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव R.1.91;2.22; ध्रुवमत्र न वर्धयेत् प्रसादम् Bu. Ch.5.65.
Good temper, graciousness of disposition.
Calmness, tranquillity, composure, serenity, sedateness, absence of excitement; आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति Bg.2.64.
Clearness, limpidness, brightness, transparency, purity (as of water, mind &c.); गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् V.1. 9; Ś.7.32; प्राप्तबुद्धिप्रसादाः Śi.11.6; R.17.1; Ki.9.25.
Perspicuity, clearness of style, one of the three Guṇas according to Mammaṭa, who thus defines it: शुष्केन्धनाग्निवत् स्वच्छजलवत् सहसैव यः । व्याप्नोत्यन्यत् प्रसादो$सौ सर्वत्र विहितस्थितिः K. P.8; यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः or श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य R. G.; see Kāv.1.44; चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च S. D.611; प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् Ki.11.38.
Food offered to idols &c., or the remnants of such food.
A free gift, gratuity.
Any propitiatory offering.
Wellbeing, welfare.
An essence of the food etc. (at the completion of the stages of digestion); रसाद् रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसान्मेदः प्रसादज इत्यादि यावत् शुक्राद् गर्भः प्रसादजः इति Āyurvedaśāstra. -Comp. -उन्मुख a. disposed to favour. -दानम् a propitiatory gift. -पट्टः a turban of honour. -पट्टकम् a written edict of favour. -पराङ्मुखa.
withdrawing favour from any one.
not caring for any body's favour. -पात्रम् an object of favour.-स्थ a.
kind, propitious.
serene, pleased, happy.
