प्रसाधनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसाधनी, स्त्री, (प्रसाध्यतेऽनयेति । प्र + साध् + ल्युट् । ङीप् ।) सिद्धिः । इति मेदिनी । ने, १९५ ॥ कङ्कतिका । इत्यमरः । २ । ६ । १३९ ॥ (यथा, सुश्रुते चिकित्सितस्थाने । २४ । “केशप्रसाधनी केश्या रजोजन्तुमलापहा ॥”) तद्युक्तिर्यथा, -- “प्रसाधनी दिङ्नवनागसप्त- सङ्ख्याभिरुक्ताङ्गुलिभिः क्रमेण । चतुर्व्विधानां पृथिवीपतीनां सम्पत्तिसौभाग्ययशःसमृद्धिदा ॥” काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् ॥ जाङ्गलानूपसामान्यदेशजानां महीभुजाम् ॥ छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ लौहं सर्व्वञ्च सर्व्वार्द्धमादित्यादिदशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्त्तिप्रसाधनी ॥ मृगाणां महिषाणाञ्च सिंहजाता प्रसाधनी । गजदन्तसमुद्भूता राज्ञामेवोपयुज्यते ॥ अत्रापि रत्नविन्यासो ज्ञेयश्चामरदण्डवत् ॥” इति युक्तिकल्पतरुः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसाधनी स्त्री।
केशमार्जनी
समानार्थक:प्रसाधनी,कङ्कतिका
2।6।139।2।1
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः। प्रसाधनी कङ्कतिका पिष्टातः पटवासकः॥
सम्बन्धि1 : मनुष्यः
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसाधनी/ प्र- f. id. ( केश-प्र्) , Ss3r.