प्रसूः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसूः, स्त्री, (प्रसूते इति । प्र + सू + “सत्सू- द्विषेति ।” ३ । २ । ६१ । इति क्विप् ।) माता । इत्यमरः । २ । ६ । २९ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । १२८ । “पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ॥”) घोटकी । इत्यमरः । ३ । ३ । २२८ ॥ कदली । वीरुत् । इति मेदिनी । से, ४ ॥ (प्रसवकर्त्ती । यथा, सुश्रुते उत्तरतन्त्रे ३८ अध्याये । “प्रस्रंसिनी स्पन्दते तु क्षोभिता दुःप्रसूश्च या ॥”)
