प्रसृतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रसृतः, पुं, (प्र + सृ + क्तः ।) निकुब्जपाणिः । अर्द्धाञ्जलिः । इत्यमरः । २ । ६ । ८५ ॥ (यथा, शतपथब्राह्मणे । ४ । ५ । १० । ७ । “यद्यनुलभेरन् प्रसृतमात्रं वाञ्जलिमात्रं वा ॥”)
प्रसृतः, त्रि, (प्र + सृ + क्तः ।) प्रवृद्धः । प्रसा- रितः । इत्यमरः । ३ । १ । ८८ ॥ (यथा, देवी- भागवते । १ । १४ । ५ । “न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥”) विनीतः । वेगितः । इति मेदिनी । ते, १२३ ॥ गतः । इति त्रिकाण्डशेषः ॥ नियुक्तः । इति हलायुधः । २ । ३६० ॥
