सामग्री पर जाएँ

प्रसेवकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रसेवकः, पुं, (प्र + सिव + ण्वुल् । यद्वा, प्रसेव एव । स्वार्थे कन् ।) वीणाप्रान्तवक्रकाष्ठम् । दण्डाधः शब्दगाम्भीर्य्यार्थं दारुमयं भाण्डं यच्च- र्म्मणा आच्छाद्य दीयते सः । इत्यन्ये । वीणा- स्थितालावूफलम् । इत्यपरे । इति भरतः ॥ तत्पर्य्यायः । ककुभः २ । इत्यमरः । १ । ७ । ७ ॥ सूत्ररचितभाण्डम् । धोकडा इति ख्यातः । तत्पर्य्यायः । स्यूनः २ स्योनः ३ धौतकटः ४ स्योतः ५ स्यूतः ६ । इति भरतः ॥ (यथा, सुश्रुते । १ । ९ । “दृतिवस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्य- योग्याम् ॥”) प्रकृष्टतन्तुसन्तानकर्त्ता च ॥

"https://sa.wiktionary.org/w/index.php?title=प्रसेवकः&oldid=151687" इत्यस्माद् प्रतिप्राप्तम्