प्रस्तार्य्यर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्तार्य्यर्म्म, [न्] क्ली, नेत्ररोगभेदः । तस्य लक्षणम् । “प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावं रक्तनिभं सिते ॥” इति माधवकरः ॥ अपि च । “समन्ताद्बिस्तृतः श्यावो रक्तो वा मांससञ्चयः । सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते ॥” इति रक्षितधृतनिमिः ॥ तस्यौषधम् । “कतकस्य फलं शङ्खं त्र्यूषणं सैन्धवान्वितम् । फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥ कुक्कटाण्डकपालानि वर्त्तिरेषा व्यपोहति । तिमिरं पटलं काचमर्म्मशुक्रं तथव च ॥ कण्डूक्लेदावूदं हन्ति मलमाशु सुखावती ॥” इति चक्रपाणिदत्तः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्तार्य्यर्म्म¦ न॰
“समन्ताद्विस्तृतः श्यावो रक्ता वा मास-सञ्चयः। सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते” वैद्यकोक्ते नेत्ररोगभेदे।
