सामग्री पर जाएँ

प्रस्तुतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रस्तुतः, त्रि, (प्रस्तूयते स्मेति । प्र + स्तु + क्तः ।) प्रकरणप्राप्तः । यथा, -- “अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया ॥” इति काव्यप्रकाशः ॥ प्राकरणिकः । प्रासङ्गिकः । इत्यलङ्कार- कौस्तुभः ॥ निष्पन्नः । यथा । प्रस्तुतवृत्तेर्मयट् । अन्नं प्रस्तुतं अन्नमयम् । यवागूः प्रस्तुता यवागू- मयी । इति कलापतद्धितः ॥ प्रकर्षस्तुति- युक्तः । प्रपूर्ब्बस्तुधातोः कर्म्मणि क्तः । उप- स्थितः । प्रतिपन्नः । उद्युक्तः । इति लोकव्यव- हारदर्शनात् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रस्तुतः&oldid=151708" इत्यस्माद् प्रतिप्राप्तम्