प्रस्थः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्थः, पुं, (प्रकर्षेण तिष्ठतीति । प्र + स्था + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः । यद्बा, प्रतिष्ठतेऽस्मिन्ननेन वेति घञर्थे कः ।) परिमाणविशेषः । स तु चतुःकुडवरूपः । इत्य- मरभरतौ ॥ आढकचतुर्थांशः । इति लीला- वती ॥ द्बिशरावपरिमाणम् । इति वैद्यक परिभाषा ॥ (यथा, सुश्रुते शारीरस्थाने । ८ । अध्याये । “बलिनो बहुदोषश्च वयःस्थस्य शरीरिणः । परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥”)
प्रस्थः, पुं, क्ली, (प्र + स्था + कः ।) अद्रेः सम- भूभागः । अद्रेरेकदेशः । इति भरतः ॥ तत्- पर्य्यायः । स्नुः २ सानुः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा, कुमारे । १ । ५४ । “प्रस्थं हिमाद्रेर्मृगणाभिगन्धि किञ्चित् क्वणत्किन्नरमध्युवास ॥”) उन्मितवस्तु । इति मेदिनी ॥ विस्तारः । यथा, “दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डे १०३ अध्यायः ॥ प्रकृष्टस्थितिविशिष्टे, त्रि ॥
