सामग्री पर जाएँ

प्रस्रवणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रस्रवणम्, क्ली, (प्रस्रवति जलमस्मादस्मिन्नितिवा । प्र + स्रु + अपादाने अधिकरणे वा ल्युट् ।) यत्र स्थाने स्रुत्वा जलं गलति तत् । इति भरतः ॥ अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति यत्र निपत्य च बहुलीभवति तत् । इति स्वाम्या- दयः ॥ गिरेरुपरि निर्झरादिप्रभवजलसंघातः । इवि साञ्जः ॥ (यथा, हरिवंशे । ९ । ५४ । ११ । “पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः । प्रभावञ्च सरस्वत्याः प्लक्षप्रस्रवणं बलः ॥”) अजस्रं मन्दवेगेन स्रवज्जलम् । इति कोक्कटः ॥ तत्पर्य्यायः । उत्सः २ । इत्यमरः । २ । ३ । ५ ॥ जलप्रस्रावः ३ । (यथा, मनुः । ४ । २०३ । “स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”) अस्य गुणाः । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनञ्च दीपनकृत् ॥ इति राजनिर्घण्टः ॥ (प्र + स्रु + भावे ल्युट् ।) प्रकर्षेण क्षरणम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रस्रवणम् [prasravaṇam], 1 Flowing or gushing forth, trickling, oozing, dripping.

Flow or discharge of milk from the breast or udder; (वृक्षकान्) घटस्तनप्रस्रवणैर्व्यवर्धयत् Ku. 5.14.

A fall of water, cascade, cataract.

A spring, fountain; नानामलप्रस्रवणैः Bhāg.4.6.11; समाचिता प्रस्रवणैः समन्ततः Ṛs.2.16; Ms.8.248; Y.1.159.

A spout.

A pool formed by the mountain streams.

Sweat, perspiration.

Voiding urine. -णः N. of a mountain; जनस्थानमध्यगो गिरिः प्रस्रवणो नाम U.1.

"https://sa.wiktionary.org/w/index.php?title=प्रस्रवणम्&oldid=361848" इत्यस्माद् प्रतिप्राप्तम्