सामग्री पर जाएँ

प्रहतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रहतम्, त्रि, (प्रहन्यते स्मेति । प्र + हन् + त्त ।) विततम् । क्षुण्णम् । इति शब्दरत्नावली ॥ प्रक- र्षेण हिंसितम् । (यथा, महाभारते । ८ । ३० । ६ । “प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्वणव्रणम् । तदहितहतमावभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥”) प्रकर्षेण गतञ्च ॥ (विताडितम् । यथा, भाग- वते । १० । ७२ । ३८ । “इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्पर्शैरपिष्टाम् ॥” वादितम् । यथा, रघुः । १९ । १४ । “स स्वयं प्रहतपुष्करः कृती लोलमाल्यबलयो हरन् मनः । नर्त्तकीरभिनयातिलङ्घिनीः पार्श्ववर्त्तिषु गुरुष्वलज्जयत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रहतम्&oldid=151736" इत्यस्माद् प्रतिप्राप्तम्