सामग्री पर जाएँ

प्रहर्षणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रहर्षणः, पुं, (प्रहर्षयतीति । प्र + हृष् + णिच् + ल्युः ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥ हर्ष- विशिष्टे, हर्षकारके च, त्रि ॥ (यथा, महा- भारते । १ । २७ । ९ । “नानापक्षिरुतं रम्यं कद्रुपुत्त्रप्रहर्षणम् ॥” प्र + हृष + भावे ल्युट् । आनन्दे, क्ली । यथा, महाभारते । १२ । ३३६ । २५ । “अथ व्रतस्यावभृते वागुवाचाशरीरिणी । स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रहर्षणः&oldid=151747" इत्यस्माद् प्रतिप्राप्तम्