प्रहर्षणी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रहर्षणी, स्त्री, (प्रहर्षयतीति । प्र + हृष् + णिच् + ल्युः । ङीष् ।) हरिद्रा । इति हारावली । त्रयोदशाक्षरपादच्छन्दोभेदः । तस्या लक्षणं यथा । छन्दोमञ्जर्य्याम् । “त्र्याशाभिर्मनजरगाः प्रहर्षणीयम् ।” तस्या उदाहरणं यथा, -- “गोपीनामधरसुधारसस्य पानै- रुत्तुङ्गस्तनकलसोपगूहनैश्च । आश्चर्य्यैरपि रतिविभ्रमैर्मुरारेः संसारे मतिरभवत् प्रहर्षणीह ॥”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रहर्षणी/ प्र- f. (See. षिणी)turmeric L.