प्रहासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रहासः, पुं, (प्रकृष्टो हासो यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥ (कार्त्तिकेयस्य अनुचर- विशेषः । यथा, महाभारते । ९ । ४५ । ६६ । “रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः ॥” नागविशेषः । यथा, तत्रैव । १ । ५७ । १५ । “पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ॥” प्रकृष्टो हासो यस्मात् ।) नटः । इति धरणिः ॥ (प्रकृष्टो हासः प्रकाशो यस्य ।) सोमतीर्थम् । इति जटाधरः ॥ (प्रकृष्टो हास इति ।) अट्ट- हासः । इति शब्दरत्नावली ॥ (यथा, कामन्दकीये । ५ । २० । “न नर्म्मसचिवैः सार्द्धं किञ्चिदप्यप्रियं वदेत् । ते हि मर्म्माण्यभिघ्नन्ति प्रहासेनापि संसदि ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रहासः [prahāsḥ], 1 Violent or loud laughter.
Ridicule, derision.
Irony, satire.
A dancer, an actor.
N. of Śiva.
Appearance, display; प्रालम्बद्विगुणित- चामरप्रहासः Ve.2.29.
N. of a place of pilgrimage; cf. प्रभास.
Splendour of colours.
