सामग्री पर जाएँ

प्रह्रादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रह्रादः, पुं, (प्रह्रादते इति । प्र + ह्राद शब्दे + अच् । यद्बा, प्रह्लादयतीति । प्र + ह्लाद + णिच् + अच् । रलयोरैक्यम् ।) प्रह्लादः । स च हिरण्यकशिपोः पुत्त्रः परमवैष्णवः । (यथा, हरिवंशे । ३ । ७१ । “हिरण्यकशिपोः पुत्त्राश्चत्वारः प्रथितौजसः । अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ॥”) तस्य चरित्रादिकं प्रह्लादशब्दे द्रष्टव्यम् ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ४६ । “मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशिका- स्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रह्रादः&oldid=151777" इत्यस्माद् प्रतिप्राप्तम्