सामग्री पर जाएँ

प्रह्वः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रह्वः, त्रि, (प्रहूयते इति । प्र + ह्वे + “सर्व्वनि- घृष्वरिष्वेति ।” उणा० १ । १५३ । इति वन् । आलोपश्च ।) नम्रः । इत्युणादिकोषः ॥ (यथा, रघुः । १६ । ८० । “विभूषणप्रत्युपहारहस्त- मुपस्थितं वीक्ष्य विशाम्पतिस्तम् । सौपर्णमस्त्रं प्रतिसञ्जहार प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥”) आसक्तिः । इति हेमचन्द्रः । ३ । ४९ ॥

"https://sa.wiktionary.org/w/index.php?title=प्रह्वः&oldid=151785" इत्यस्माद् प्रतिप्राप्तम्