सामग्री पर जाएँ

प्राकृतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राकृतः, त्रि, (प्रकृष्टमकृतमकार्य्यं यस्य ।) नीचः । इत्यमरः ॥ (यथा, देवीभागवते । १ । १५ । ३१ । “अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ॥” अविकारकः । यथा, भावप्रकाशे अजीर्ण- रोगाधिकारे । “वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ॥ प्राकृतं अविकारकम् ॥” * ॥) प्रकृतिसम्बन्धी । यथा, -- “इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥” इति श्रीभागवते दशमस्कन्धे ३ अध्यायः ॥ (यथाच मार्कण्डेये । ४५ । ७३ । “इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥” यथा च मनौ । ११ । १५९ । “स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥” “प्राकृतं प्राजापत्यं प्रकृतौ भवं प्राकृतं सर्व्व- कृच्छ्राणां प्रकृतित्वादेवमुच्यते ।” इति तद्भाष्ये मेधातिथिः ॥ * ॥ प्रकृतौ भवस्तत आगतो वा । प्रकृति + “तत्र भवः ।” ४ । ३ । ५३ । “तत आगतः ।” ४ । ३ । ७४ । इति वा अण् ।) भाषाभेदे, क्ली । स च संस्कृतप्रकृतिकः । यथा । अथ प्राकृतम् । अथशब्द आनन्तर्य्यार्थोऽधि- कारार्थश्च । प्रकृतिः संस्कृतं तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृत- मधिक्रियते । संस्कृतानन्तरं प्राकृतस्यानुशास- नम् । सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृत- समन्तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते प्रकृतिप्रत्ययलिङ्गकारकसमाससं ज्ञादयः संस्कृत- वद्वेदितव्याः । लोकादिति च वर्त्तते । तेन ऋ ॠ ऌ ॡ ऐ औ ङ ञ श ष विसर्ज्जनीयप्लुतवर्जो वर्णसमाम्नायो लोकादवगन्तव्यः । ङञौ स्ववर्ग्य- संयुक्तौ भवत एव । ऐदौ तौ च केषाञ्चित् । कैतवं कैअवम् । सौदर्य्यं सौअरिअम् । कौरवाः कौअवा । तथा स्वरव्यञ्जनं द्विवचनं चतुर्थी- बहुवचनञ्च न तु भवति । अबहुलं बहुल- मित्यधिकृतं वेदितव्यमाशास्त्रपरिसमाप्तेः । ततश्च क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्- विभाषा क्वचिदन्यदेव भवति । इति हेमचन्द्र- कृतशब्दानुशासनवृत्तौ अष्टमाध्यायस्य चतुर्थः पादः ॥ * ॥ (यथा च प्राकृतचन्द्रिकायाम् । “प्रकृतिः संस्कृतं तत्र भवत्वात् प्राकृतं स्मृतम् । तद्भवं तत्समं देशीत्येवमेतत् त्रिधा मतम् ॥” चण्डाचार्य्यादयस्तु आर्षप्राकृतभेदेन प्राकृतं द्विविधं कल्पयन्ति । जैनबौद्धानां शास्त्रेषु प्राचीनतमनाटकादिषु च आर्षप्राकृतप्रयोगः प्रायशो दृश्यते ॥ कानिचित् विशेषलक्ष्याणि प्राकृतचन्द्रिकायामुक्तानि । यथा, -- “तच्चार्षं मागधी शौरसेनी पैशाचिकी तथा । चूलिका पैशाचिकञ्चापभ्रंशश्चेति षड्विधम् ॥ महाराष्ट्रोद्भवां भाषां प्रकृष्टं प्राकृतं विदुः । आकरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥” नाटकादौ उत्तमस्यापि नायकादेः कदाचितु मत्तादिदोषोपहतस्य प्राकृतकथनं नैव दोषाय । यदुक्तं तत्रैव । “ऐश्वर्य्यादिप्रमत्तस्य दारिद्रोपप्लुतस्य च । उत्तमस्यापि पठतः प्राकृतं नैव दूष्यति ॥ क्रीडार्थं नृपतेरिष्टं प्राकृतञ्च द्बिजन्मनाम् । भरतेनोदितं प्राज्यमबाधितमिदं वचः ॥” नाटकादौ बालस्त्रीवृद्धादीनामगुणान्वितानां प्राकृतकथनमेव युक्ततरम् । यथाह भरद्वाजः । “गाथासु तु महाराष्ट्र्या अन्या नाट्याश्रया मताः । बालस्त्रीवृद्धभिक्षूणां श्रावकव्याजलिङ्गिनाम् । ग्रहोपसृष्टमत्तानां प्राकृतं षण्डरूपिणाम् ॥” * ॥ प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ । ३८ -- ३९ । “नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकी द्विज ! । नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥ ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः । प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्राकृतः&oldid=151795" इत्यस्माद् प्रतिप्राप्तम्