सामग्री पर जाएँ

प्राकृतप्रलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राकृतप्रलयः, पुं, (प्राकृतः प्रकृतिसम्बन्धी प्रलयः ।) प्रकृतेर्लयः । तस्य विवरणम् । यथा, -- “निर्गुणस्य च नित्यस्य चाद्यन्तरहितस्य च । निमेषाणां सहस्रेण प्रकृतेर्द्दण्ड उच्यते ॥ षष्टिदण्डात्मकस्तस्य वासरश्च प्रकीर्त्तितः । मासस्त्रिंशद्दिवारात्रैर्व्वर्षं द्वादशमासकैः ॥ एवं गते शताब्दे च श्रीकृष्णे प्रकृतेर्लयः । प्रकृत्याञ्च प्रलीनायां तदैवं प्राकृतो लयः ॥ सर्व्वाः संहृत्य सा चैका महाविष्णोः प्रसूश्च या । कृष्णवक्षसि लीना च मूलप्रकृतिरीश्वरी ॥ शाक्ता वदन्ति तां दुर्गां विष्णुमायां सनातनीम् । सर्व्वशक्तिस्वरूपाञ्च परां नारायणीं सतीम् ॥ बुद्ध्यधिष्ठातृदेवीञ्च कृष्णस्य त्रिगुणात्मिकाम् । यन्मायया मोहिताश्च ब्रह्मविष्णुशिवादयः ॥ वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते । यदर्द्धाङ्गा महालक्ष्मीः प्रिया नारायणस्य च ॥ प्राणाधिष्ठातृदेवीञ्च प्रेम्णा प्राणाधिकां वराम् । शश्वत् प्रेममयीं शक्तिं निर्गुणां निर्गुणस्य च ॥ नारायणश्च शम्भुश्च संहृत्य स्वगणान् बहून् । शुद्धसत्त्वस्वरूपी च कृष्णे लीनश्च निर्गुणे ॥ गोपा गोप्यश्च गावश्च सुरभ्यश्च नराधिप ! । सर्व्वे लीनाः प्रकृत्याञ्च प्रकृतिः प्रकृतीश्वरे ! ॥ महाविष्णौ विलीनाश्च सर्व्वे ते क्षुद्रविष्णवः । महाविष्णुः प्रकृत्याञ्च सा चैवं परमात्मनि ॥ प्रकृतिर्योगनिद्रा च श्रीकृष्णनेत्रपद्मयोः । अधिष्ठानं चकारैवं मायया चेश्वरेच्छया ॥ प्रकृतेर्व्वासरं यावन्मितं कालं प्रकीर्त्तितम् । तावद्वृन्दावने निद्रा कृष्णस्य परमात्मनः ॥ अमूल्यरत्नतल्पे च वह्निशुद्धांशुकार्च्चिते । गन्धचन्दनमाल्याढ्ये वायुना सुरभीकृते ॥ पुनः प्रजागरे तस्य सर्व्वसृष्टिर्भवेत् पुनः । एवं सर्व्वे प्राकृतिकाः श्रीकृष्णं निर्गुणं विना ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ * ॥ अपि च । “प्रकृतौ संस्थितो यस्मात् सर्व्वस्तन्मात्रसञ्चयः । अहङ्कारमहत्तत्त्वगतो यत् प्राकृतो लयः ॥ प्रकृतौ संस्थितो व्यक्तमतीतप्रलयस्तु यत् । तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः ॥ अयं यः कथितो विप्राः प्राकृताख्यो महालयः ॥” इति कालिकापुराणे २४ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राकृतप्रलय¦ कर्म॰। प्रलयभेदे प्रलयशब्दे दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राकृतप्रलय¦ m. (-यः) The total dissolution of the world. E. प्राकृत material, and प्रलय destruction.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राकृतप्रलय/ प्राकृत--प्रलय m. the total dissolution of the world W.

"https://sa.wiktionary.org/w/index.php?title=प्राकृतप्रलय&oldid=502990" इत्यस्माद् प्रतिप्राप्तम्