प्राकृतमित्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतमित्रम्, क्ली, (प्राकृतं स्वाभाविकं मित्रं सुहृत् ।) स्वदेशव्यवहितदेशावस्थितराजादिः । यथा, माघे । २ । ३६ । “सखा गरोयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥” अस्य टीका । “ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रा- मित्रबलाबलविवेकं तावत् करोति । सखेति । क्रियया उपकारापकारान्यतररूपया निर्वृत्तः कृत्रिमः सखा सुहृत् गरीयान् बलवान् एवं शत्रुश्च कृत्रिमो गरीयान् कुतः हि यस्मात्तौ कृत्रिममित्रशत्रू च कार्य्यतः उपकारापकार- रूपकार्य्यवशात् निर्वृत्ताविति शेषः । उक्तकार्य्यो- पाधेर्यावज्जीवमनपायादनयोर्म्मित्रामित्रभावो- ऽपि अनपायीति गरीयस्त्वमिति भावः । सहज- प्राकृतौ तु नैवमित्याह । स्यातामिति । सह- जातः सहजः एकशरीरावयवत्वात् तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि सहजशत्रुस्तु पितृव्यतत्पुत्त्रादिः प्रकृत्या सिद्धः प्राकृतः पूर्ब्बोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः तदनन्तरः प्राकृतं मित्रं अपि त्वर्थे तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां न त्वात्मकार्य्यवशादनियमेनोभयरूपता- मापद्येते न कृत्रिमशत्रुमित्रे कृत्रिमशत्रुः शत्रु- रेव मित्रञ्च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ न तु सहजौ नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्व्वापवादीति सिद्धम् ।” इति मल्लिनाथः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतमित्र¦ न॰ कर्म॰। स्वभावसिद्धे मित्रे विषयानन्तरस्थनृपरूपात् प्राकृतशत्रोः अव्यवहितोत्तरविषयस्थे नृपे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतमित्र¦ m. (-त्रः) A natural friend or ally; as applied to a sovereign, it means one whose states are removed by an intervening kingdom from those to which it should be friendly, the प्राकृतारि or natural enemy is the chief of the intervening state, and the प्राकृतोदासीनः or natural neutral is the outer one of the four. E. प्राकृत natural, and मित्र a friend.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतमित्र/ प्राकृत--मित्र n. a natural friend or ally , a sovereign whose kingdom is separated by that of another from the country with which he is allied , W(See. प्राकृता-रिand तो-दासीण).