प्राकृतिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राकृतिकः, त्रि, (प्रकृति + ठञ् ।) प्रकृति- विकारः । प्रकृतिसम्बन्धी । यथा, -- “एवं सर्व्वे प्राकृतिकाः श्रीकृष्णं निर्गुणं विना ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ (प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ । ३८ । “नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्बिज ! । नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥”)
