प्रागल्भ्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रागल्भ्यम्, क्ली, (प्रगल्भस्य भावः । प्रगल्म + ष्यञ् ।) प्रगल्भता । यथा, -- “प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पादयते शरीरे वृद्धस्य दारा इव दर्शनीयाः ॥” इति ज्योतिस्तत्त्वम् ॥ स्त्रीणामयत्नजभावविशेषः । यथा, -- “प्रागल्भ्यौदार्य्यमाधुर्य्यशोभाधीरत्वकान्तयः । दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः ॥” इति हेमचन्द्रः । ३ । १७३ ॥ (यथा च साहित्यदर्पणे । ३ । १०२ । “निःसाध्वसत्वं प्रागल्भ्यम् ॥” यथा, -- “समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्व्वन्ति योषितः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रागल्भ्यम् [prāgalbhyam], 1 Boldness, confidence; निःसाध्वसत्वं प्रागल्भ्यम् S. D.
Pride, arrogance.
Proficiency, skill.
Development, greatness, maturity; बुद्धिप्रागल्भ्य, तमः- प्रागल्भ्य &c.
Manifestation, appearance; अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये K. P.1. 'which has appeared'.
Eloquence; प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते (where प्रा˚ may mean 'boldness' also); प्रागल्भ्य- मधिकमाप्तुं वाणी बाणो बभूवेति Subhaṣ.; प्रागल्भ्यमभ्यस्तगुणा च वाणी Māl.3.11.
Pomp, rank.
Resoluteness, determination.
Impudence. -Comp. -बुद्धिः boldness of judgment.
