प्राग्र्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राग्र्यम्, त्रि, (प्रकर्षेणाग्रे भव इति । प्राग्र + यत् ।) श्रेष्ठः । इत्यमरः । ३ । १ । ५८ ॥ (यथा, महाभारते । ९ । ५८ । ११ । “कृत्वा हि सुमहत् कर्म्म हत्वा भीष्ममुखान् कुरून् । जयः प्राप्तो यशःप्राग्र्यं वैरञ्च प्रतियाचितम् ॥”)
