प्राचीनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राचीनः, त्रि, (प्रागेवेति । प्राक् + “विभाषाञ्चेर- दिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः खस्ये- नादेशः ।) पूर्ब्बदिग्देशकालभवः । तत्पर्य्यायः । प्राक् २ । (यथा, आर्य्यासप्तशत्याम् । ३५१ । “प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधि- वसति । त्वां सखि ! पश्यामि तथा छायामिव संकुचन्मा- नाम् ॥” यथा च भागवते । ४ । २४ । १० । “प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥” प्रागग्रम् । यथा, ऋग्वेदे । १ । १८८ । ४ । “प्राचीनं वर्हिरोजसा सहस्रवीरमस्तृणन् ॥” “प्राचीनं प्रागग्रम् ।” इति तद्भाष्ये सायनः ॥ प्रकृष्टगन्ता । अपराङ्मुखः । यथा, ऋग्वेदे । १ । ५४ । ५ । “प्राचीनेन मनसा बर्हणावता ।” “प्राचीनेन प्रकर्षेण गन्त्रा अपराङ्मुखेनेत्यर्थः ॥” इति तद्भाष्ये सायनः ॥) पुं, प्राचीरम् । तत्पर्य्यायः । आवेष्टकः २ वृतिः ३ । इति हेमचन्द्रः । ४ । ४८ ॥
