सामग्री पर जाएँ

प्राचीनवर्हिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राचीनवर्हिः, [स्] पुं, इन्द्रः । इति हेमचन्द्रः । २ । ८५ ॥ (यथा, रघौ । ४ । २८ । “स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा । अहिताननिलोद्धूतैस्तर्ज्जयन्निव केतुभिः ॥”) राजविशेषः । (यथा, महाभारते । १२ । २०८ । ६ । “अत्रिवंशे समुत्पन्नो ब्रह्मयोनिः सनातनः । प्राचीनवर्हिर्भगवांस्तस्मात् प्रचेतसो दश ॥”) यथा च । “हविर्द्धानात् षडाग्नेयी पुत्त्रानजनयद्व्रतम् । प्राचीनवर्हिषं शुक्रं गयं कृष्णं प्रजाजिनौ ॥ प्राचीनवर्हिर्भगवान् महानासीत् प्रजापतिः । हविर्द्धानात् द्विजश्रेष्ठ ! येन संवर्द्धिताः प्रजाः ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ! । प्राचीनवर्हिर्भगवान् ख्यातो भुवि महाबलः ॥ समुद्रतनयायान्तु कृतदारो महीपतिः । महतस्तपसः पारे सुवर्णायां महीपतिः ॥ सुषुवे दश पुत्त्रांश्च शुष्मिणां वै प्रचेतसः । दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥” इति वह्निपुराणे वरसर्गो नामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=प्राचीनवर्हिः&oldid=151864" इत्यस्माद् प्रतिप्राप्तम्