प्राचीनावीती
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राचीनावीती, [न्] पुं, (प्राचीनावीतमस्त्यस्येति । प्राचीनावीत + इनिः ।) प्राचीनावीतविशिष्टः । यथा । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणे- ऽशे प्रतिष्ठापयति सव्यं कक्षमवलम्बं भवति एवं प्राचीनावीती भवतीति । इति गोभिलः ॥ प्रतिष्ठापयति यज्ञोपवीतमिति शेषः । इत्या- ह्निकतत्त्वम् ॥
