प्राचेतसः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राचेतसः, पुं, (प्रत्तेतसोऽपत्यमिति । प्रचेतस् + अण् ।) वाल्मीकिमुनिः । इति हेमचन्द्रः । ३ । ५१० ॥ (यथा, रघुः । १५ । ६३ । “अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥” प्रचेतसोऽपत्यमात्रम् । विष्णुः । यथा, हरिवंशे । २०३ । १४ । “प्रज्ञया तेजसा योगात्तस्मात् प्राचेतसः प्रभुः । विष्णुरेव महायोगी कर्म्मणामन्तरङ्गतः ॥” दक्षः । यथा, महाभारते । १ । ७५ । ५ । “वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत् सहस्रं संशितव्रतान् ॥”)
प्राचेतसः, [स्] पुं, प्राचीनवर्हीराजपुत्त्राः । सान्तनित्यबहुवचनान्तोऽयम् । यथा, -- “एवमुक्तास्तु ते पुत्त्रास्ततः प्राचेतसो दश । पयोधिसलिले मग्नास्तपस्तेपे सुदारुणम् ॥ पतत्रिराजमारूढं नीलोत्पलदलच्छविम् । दृष्ट्वा प्राचेतसः सर्व्वे शिरोभिरवनीं गताः ॥” इति वह्निपुराणम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राचेतसः [prācētasḥ], A patronymic of Manu.
Of Dakṣa.
Of Vālmīki.
