सामग्री पर जाएँ

प्राच्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राच्यः, पुं, (प्राचि भवः । प्राच् + “द्युप्रागपागु- दक्प्रतीचो यत् ।” ४ । २ । १०१ । इति यत् ।) शरावत्याः प्राग्दक्षिणदेशः । इत्यमरः । २ । १ । ७ ॥ (पूर्ब्बदिग्भवे, त्रि । यथा मार्कण्देये । ५७ । ४२ -- ४४ । “--प्राच्यान् देशान् निबोध मे । अध्रारका सुदकरा अन्तर्गिर्य्या वहिर्गिराः ॥ यथा प्रवङ्गा वङ्गेया मालदा मालवर्त्तिकाः । ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । मल्ला मगधगीमन्ताः प्राच्या जनपदाः स्मृताः ॥”) पूर्ब्बदेशीये च, त्रि ॥ (यथा, महाभारते । ८ । ४५ । २८ । “प्राच्या दासा वृषला दाक्षिणात्याः स्तेना वाहीकाः सङ्करा वै सुराष्ट्राः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्राच्यः&oldid=151881" इत्यस्माद् प्रतिप्राप्तम्