प्राजापत्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राजापत्यः, पुं, (प्रजापतेरयमिति । प्रजापति + ण्यः । “प्रजापतेर्यज्ञ आसीत् प्रयागे ।” इति महाभारतीय-। १ । ५५ । १ । वचनात् तथा- त्त्वम् ।) प्रयागः । इति त्रिकाण्डशेषः ॥ जैन- राजभेदः । तत्पर्य्यायः । त्रिपृष्ठः २ । इति हेमचन्द्रः । ३ । ५९ ॥ कायनामकविवाहः । सह धर्म्मं चरतां इति नियमं कृत्वा कन्या- दानम् । यथा, -- “इत्युक्त्वा चरतां धर्म्मं सहजा दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट् षड्वंश्यान् सहा- त्मना ॥” इति मिताक्षरा ॥ कायः कः प्रजापतिर्देवता अस्येति प्राजापत्य इत्यर्थः । इत्युद्बाहतत्त्वम् ॥ (तथा च मनुः । ३ । ३० । “सहोभौ चरतां धर्म्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥”)
