प्राज्ञः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राज्ञः, पुं, (प्रकर्षेण जानातीति । प्र + ज्ञा + कः । ततः प्रज्ञ एव स्वार्थे अण् ।) कल्कि- देवस्य ज्येष्ठभ्राता । यथा, -- “कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च शम्भले । कविं प्राज्ञं सुमन्तञ्च पुरस्कृत्य महाप्रभम् ॥” इति कल्किपुराणे २ अध्यायः ॥ पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, -- “पण्डिते च गुणाः सर्व्वे मूर्खे दोषा हि केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥” इत्युद्भटः ॥) राजशुकः । इति राजनिर्घण्टः ॥ (प्रकर्षेण अज्ञः इति विग्रहे मूर्खोऽपि ॥)
प्राज्ञः, त्रि, (प्रज्ञ + स्वार्थे अण् । यद्बा, प्रज्ञा- स्त्यस्येति । अच् ।) पण्डितः । (यथा, महा- भारते । १ । १४६ । १९ । “पौरेषु विनिवृत्तेषु विदुरः सर्व्वधर्म्मवित् । बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः ॥”) दक्षः । इति शब्दरत्नावली ॥ (विज्ञः । यथा, मनुः । २ । १२३ । “नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव च ॥”)
