प्राज्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राज्यम्, त्रि, (प्रवीयते इति । प्र + अज् + ण्यत् । वीभावाभावः ।) प्रचुरम् । इत्यमरः । ३ । १ । ६३ ॥ (यथा, कुमारे । २ । १८ । “स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥” प्रभूतं आज्यं घृतं यस्येति विग्रहे प्रचुरघृत- सम्पन्नः । प्रकृष्टमाज्यमिति विग्रहे प्रकृष्ट- घृते, क्ली ॥)
