प्राड्विवाकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राड्विवाकः, पुं, (पृच्छतीति प्राट् विविच्य वक्तीति विवाकः । ततः कर्म्मधारयः ।) व्यवहारद्रष्टा । जज् इति इङ्गरेजी भाषा । तत्पर्य्यायः । अक्ष- दर्शकः २ । इत्यमरः । २ । ८ । ५ ॥ व्यवहार- दर्शी ३ । इति शब्दरत्नावली ॥ द्वे व्यव- हाराणां ऋणादानादिविवादानां द्रष्टरि निर्णे- तरि धर्म्माध्यक्षे इत्यर्थः । पृच्छति वादिप्रति- वादिवाक्यं प्राट् ददृज्जुहूवाक् प्राडिति निपातः । विविच्य वक्ति विवाकः कभावेऽमी इति घञ् प्राट् चासौ विवाकश्चेति प्राड्विवाकः । “विवादानुगतं पृष्ट्वा पूर्ब्बवाक्यं प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥” इति स्मृतिः । इति भरतः ॥ अपि च । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट् तयोर्व्वचनं विरुद्धाविरुद्धञ्च सभ्यैः सह विवि- नक्ति विवेचयति वेति विवाकः प्राट् चासौ विवाकश्चेति प्राड्विवाकः । उक्तञ्च । “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥” इति मिताक्षरा ॥
