प्राड्विवेक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राड्वि(वा)वेक¦ पु॰ अर्थिप्रत्यर्थिनौ पृच्छति प्रच्छ--क्विप्प्राट्, तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति वक्तिवा वि + विच--वि + वच--वा संज्ञायां घञ् कर्म॰। व्यव-हारदर्शनाय राजनियुक्ते
१ विचारके स्वयं विचारक
२ नृपसहाये च तल्ल्क्षणादिकं वीरमि॰ उक्तं यथा
“विवादे पृच्छति पश्नं प्रतिप्रश्नं तथैव च। प्रियपूर्वंप्राग्वदति प्राड्विवाकस्ततः स्मृतः” वृहम्पतिः। व्यासो-ऽपि
“विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः। विचारयति येनासौ प्राड्विवेकस्ततः स्मृतः” गौतमेनतु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य दर्शितः।
“प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्या-मुक्तं सभ्यैः सह विविच्य वक्तीतिप्राड्विवाकः” इतिवृहस्पतिना। विचारयतीत्यभिधानाद्विविनक्ति इति विवे-कशब्दस्य व्युत्पत्तिरुक्ता। विविच्य वक्तीति विवाक इति। इति गौतमेन। नारदहारीतौ
“यथा शल्यं भि-षक्कायादुद्धरेद्यत्नयुक्तितः। प्राड्विवाकस्तथा शल्य-मुद्धरेद्व्यवहारतः” इति। शल्यञ्च धर्मस्याधर्ममिश्र-णम्। यथा च मनुः
“बिद्धो धर्मो ह्यधर्मेण सभांयत्रोपतिष्ठते। शल्यञ्चास्य निकृन्तन्ति विद्धास्तत्र सभा-सद” इति। अयञ्च राज्ञा स्वयंव्यवहारदर्शने क्रियमा-णेऽस्य सहयः
“सप्राड्विवाकः” इति स्मरणात्। यदातु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयंव्यवहारदर्शनासमर्थस्तदा तत्प्रतिनिधिः।
“यदा स्वयं-न कुर्य्यात् तु नृपतिः कार्य्यदर्शनम्। तदा मियुञ्ज्या-द्विद्वासं ब्राह्मणं कार्य्यदर्शने। सोऽस्य कार्य्याणि सम्प-श्येत्सभ्यैरेव त्रिभिर्वृतः। सभामेव प्रविश्याग्र्यामा-सीनः स्थित एव सः” इति मनुवचनात्। सभ्यग्रहणा-दमात्यादिनिवृत्तिः त्रिग्रहणात् संख्यान्तरनिवृत्तिः। असभ्यानामिति स्मृतिचन्द्रिकाकारः। तत्र दृष्टार्थत्वप्रसङ्गादयुक्तमित्युपलक्षणत्वमेव न्याप्यम्।
“अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु। सभ्यैः स ह नियोक्तव्यो ब्राह्मणः सर्व धर्मवित्” इति याज्ञवल्क्यवचनाच्च।
“यदन कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम्। तथा तत्र[Page4508-a+ 38] नियुञ्जीत ब्राह्मणं शास्त्रपारगम्। दान्तं कुलीनंमध्यस्थमनुद्वेगकरं स्थिरम्। परत्रभीरुं धर्मिष्ठ-मुद्युक्तं क्रोधवर्जितम्” इति कात्यायनस्मरणाच्च। शास्त्रपारगं बहुशास्त्राभियोगशालिनम्। यथा हस एव
“एकं शास्त्रमधीयानो न विद्यात् कार्यनिर्णयम्। तस्माद्बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः”। एवंविध-ब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत न शूद्रम्। तथा च स एव
“यत्र विप्रो न विद्वान् स्यात् क्षत्रिथं तत्रथोजयेत्। वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्” मनुः
“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन। यस्य राज्ञस्तुकुरुते शूद्रो धर्मविवेचनम्। तस्य सीदति तद्राष्ट्रंपङ्के गौरिव पश्यतः”। व्यासः
“द्विजान् विहाय यापश्येत् कार्य्याणि वृषलैः सह। तस्य प्रक्षुभ्यते राष्ट्रंबलं कोशश्च नश्यति”। इदं वचनं स्मृतिचन्द्रिकायाममा-त्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णयइत्येवंपरमुक्तम दोषातिशयकीर्त्तनात्। कल्पतर्वा-दिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन लि-खितम्। अयञ्च प्रतिषेधोऽदृष्टार्थ एव राष्ट्रक्षोभादे-रदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात्। चण्डेश्वरेण तु शू-द्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात् तत्-प्रतिसन्धानस्य च सम्यग्निर्णयोपायत्वात् त्याग इतियुक्तिरप्युक्ता। सा बणिगादिष्वतिप्रसक्तेत्यन्वाचयमात्रम्। एते च सर्वे व्यवहारसम्बद्धाः प्रतिषेधा अभिषिक्तक्ष-त्रियाधिकारिकास्तत्स्थानापन्नान्याधिकारिकाश्च। प्राड्-विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः। सप्राड्-विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च।
“राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः। धर्मासनगतःपश्येद्व्यवहाराननुल्वणः” इति प्रजापतिवचनात्। अत्रराजशब्दोऽवयुत्यधिकारणन्यायेन क्षत्रियजातिवचनः। अभिषेकसंयुक्त इति वचनात् मृत्यन्तरेऽप्यभिषिक्तक्षत्रियंप्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः। अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव। प्राड्-विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्त-मित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभा-गिता। अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौव्यक्तम्। ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न{??}कारपरः। अनुस्त्वणोऽनुद्धतः”। [Page4508-b+ 38]
