प्राणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणः, पुं, (प्राणिति जीवति बहुकालमिति । प्र + अन + अच् । प्राणित्यनेनेति करणे घञ् वा ।) ब्रह्मा । इति त्रिकाण्डशेषः ॥ हृन्मा- रुतः । (यदुक्तम् । “हृदिप्राणो गुदेऽपानः समानो नाभिसंस्थितः ॥”) वोलः । काव्यजीवः । अनिलः । बलम् । (यथा, हरिवंशे । ८६ । ३६ । “बाहुप्राणेन शूराणां समाजोत्सवसन्निधौ ॥”) पूरिते, त्रि । इति मेदिनी ॥ सूक्ष्मशरीरसम- ष्ट्युपहितचैतन्यम् ॥ प्राग्गमनवान् नासाग्रस्थान वर्त्ती वायुः । इति वेदान्तसारः ॥ तस्य कर्म्मबहिर्गमनम् । इति श्रीधरस्वामी ॥ तस्य रूपं स्थानानि च यथा, -- “इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् । आस्यनासिकयोर्म्मध्ये हृन्मध्ये नाभिमध्यगे ॥ प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन ॥” इति योगार्णवः ॥ (यथा, महाभारते । १२ । ३२८ । ३५ । “प्राणिनां सर्व्वतो वायुश्चेष्टां वर्त्तयते पृथक् । प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥”) पञ्चप्राणविवरणं बहुवचनान्तप्राणशब्दे द्रष्ट व्यम् ॥ धातुः पुत्त्रः । यथा, -- “आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥” इति मार्कण्डेये रुद्रसर्गाध्यायः ॥ (धरपुत्त्रविशेषः । यथा, मत्स्यपुराणे । ५ । २३-२४ । “द्रविणो हव्यवाहश्च नरपुत्त्रावुभौ स्मृतौ । कल्यानिन्यां ततः प्राणो रमणः शिशिरोऽपि च ॥ मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणः [prāṇḥ], 1 Breath, respiration.
The breath of life, vitality, life, vital air, principle of life (usually pl. in this sense, the Prāṇas being five; प्राण, अपान, समान, व्यान and उदान); प्राणैरुपक्रोशमलीमसैर्वा R.2.53;12.54; (हृदि प्राणो गुदे$पानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥).
The first of the five life-winds or vital airs (which has its seat in the lungs); अपाने जुह्वति प्राणं प्राणे$पानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायाम- परायणाः ॥ Bg.4.29.
Wind, air inhaled.
Energy, vigour, strength, power; as in प्राणसार q. v.; युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर Rām.3.5.28; Bhāg.8.2.29; सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षः Mv.1.45.
The spirit or soul (opp. शरीर).
The Supreme Spirit; इमानि भूतानि प्राणमेवाभिसंविशन्ति Bṛi. Up.1.11.5.
An organ of sense; स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ Ms.4.143; मरीचिमिश्रा ऋषयः प्राणेभ्यो$हं च जज्ञिरे Bhāg.1.6.31.
Any person or thing as dear and necessary as life, a beloved person or object; कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः H.2.9; अर्थपतेर्विमर्दको बहिश्चराः प्राणाः Dk.
The life or essence of poetry, poetical talent or genius; inspiration.
Aspiration; as in महाप्राण or अल्पप्राण q. v.
Digestion.
A breath as a measure of time.
Gum-myrrh.
Life, living (जीवन); दैवं च दैवसंयुक्तं प्राणश्च प्राणदश्च ह । अपेक्षापूर्वकरणादशुभानां शुभं फलम् ॥ Mb.12.36.14.
Food (अन्न); अनस्तिकानां भूतानां प्राणदाः पितरश्च ये Mb.12.12.4.
N. of Brahmā, Viṣṇu and other gods. -Comp. -अतिपातः killing a living being, taking away life. -अत्ययः loss of life. -अधिक a.
dearer than life.
superior in strength or vigour. -अधिनाथः a husband. -अधिपः the soul. -अन्तः death; capital punishment; अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति Ms.8.359. -अन्तिक a.
fatal, mortal.
lasting to the end of life, ending with life.
dangerous.
capital (as a sentence); अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ Ms. 11.146. (-कम्) murder. -अपहारिन् a. fatal, destructive to life. -अपानम्, -नौ air inhaled and exhaled; प्राणापाना- न्तरे देवी वाग्वै नित्यं प्रतिष्ठिता Mañjūṣā. -अयनम् an organ of sense; (सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहते$हमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ Bhāg.4.29.72. -आघातः destruction of life, killing a living being; प्राणाघातान्निवृत्तिः Bh.3.63.-आचार्यः a physician to a king. -आत्मन् m. the vital or animal soul. -आद a. fatal, mortal, causing death.-आबाधः injury to life; प्राणाबाधयुक्तास्वापत्सु Kau. A.1.8.-आयामः restraining or suspending the breath during the mental recitation of the names or attributes of a deity. -आहुतिः f. an oblation to the five Prāṇas.
ईशः, ईश्वरः a lover, husband; नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति Amaru.67; बाला लोलविलोचना शिव शिव प्राणेशमालोकते Bv.2.57.
wind. -ईशा, -ईश्वरी a wife, beloved, mistress. -उत्क्रमणम्, -उत्सर्गः departure of the soul, death. -उपहारः food. -कर a. refreshing or reviving the spirits; सद्यो मांसं नवान्नं च बाला स्त्री क्षीरभोजनम् । क्षीर- मुष्णोदकं चैव सद्यः प्राणकराणि षट् ॥ Chāṇakya. -कर्मन् n. Vital function. -कृच्छ्रम्, -बाधा peril of life, a danger to life.-ग्रहः the nose. -घातक a. destructive to life. -घोषः the sound from the ears when the fingers are put therein; छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः Bhāg.1.42.29. -घ्नःa. fatal, life-destroying. -चयः increase of strength.-छिद् a.
murderous.
destructive. -छेदः murder.
त्यागः suicide; वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः H.1.
death. -द a. life-giving.
(दम्) water.
blood.
(दः) Viṣṇu.
Brahmā.
Terminalia Tomentosa (Mar. ऐन). -दा Terminalia Chebula (Mar. हिरडा).-दक्षिणा gift of life; प्राणदक्षिणां दा 'to grant one his life'.-दण्डः capital punishment. -दयितः a husband. -दातृa. 'life-giver', saviour, deliverer.
दानम् resigning life.
the gift of life, saving one's life. -दुरोदरम्, -द्यूतम् fighting for life. -दृह् a. Sustaining or prolonging the breath. -द्रोहः an attempt upon any body's life.-धार a. living, animate. (-रः) a living being.
धारणम् maintenance or support of life.
vitality.
a means of supporting life.
नाथः a lover, husband.
an epithet of Yama. -निग्रहः restraint of breath, checking the breath.
पतिः a lover, husband.
the soul; बुद्धिं समाच्छाद्य च मे समान्युरुद्भूयते प्राणपतिः शरीरे Mb.3. 269.4.
a physician. -पत्नी the voice. -परिक्रयः staking one's life. -परिक्षीण a. one whose life is drawing to a close. -परिग्रहः possession of life, life, existence. -प्रद, -दायक, -दायिन् a. restoring or saving life.-प्रयाणम् departure of life, death. -प्रियः 'as dear as life', a lover, husband. -भक्ष a. feeding on air only.-भास्वत् m. the ocean. -भृत् a. possessed of life, living, animate, sentient. (-m.) a living being; अन्तर्गतं प्राणभृतां हि वेद R.2.43.
N. of Viṣṇu.
मोक्षणम् departure of life, death.
suicide. -यमः = प्राणायाम q. v.
यात्रा support of life; maintenance, livelihood; पिण्डपात- मात्रप्राणयात्रां भगवतीम् Māl.1.
the act of breathing.-यात्रिक requisite for subsistence; प्राणयात्रिकमात्रः स्यात् Ms.6.57.
योनिः the Supreme Being.
wind. (-f.) the source of life.
रन्ध्रम् the mouth.
a nostril.
रोधः suppressing the breath.
danger to life. -वल्लभा a mistress, wife. -विद्या the science of breath or vital airs. -विनाशः, -विप्लवः loss of life, death. -वियोगः separation of the soul from the body, death. -वृत्तिः f. a vital function. -व्ययः cost or sacrifice of life. -शरीरः the Supreme Being; स क्रतुं कुर्वीत मनोमयः प्राणशरीरः Ch. Up. -संयमः suspension of breath.-संशयः, -संकटम्, -संदेहः risk or danger to life, peril of life, a very great peril. -संहिता a manner of reciting the Vedic text. -सद्मन् n. the body. -सम a. as dear as life. (-मः) a husband, lover. (-मा) a wife; नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति Māl.9.33. -सार a. 'having life as the essence', full of strength and vigour, muscular; गिरिचर इव नागः प्राणसारं (गात्रं) विभर्ति Ś.2.4. -हर, -हारिन् a. causing death, taking away life, fatal; पुरो मम प्राणहरो भविष्यसि Gīt.7.
capital.-हारक a. fatal. (-कम्) a kind of deadly poison.
