प्राणदम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणदम्, क्ली, (प्राणं प्राणनं बलं वा ददातीति । प्राण + दा + “आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।) जलम् । रक्तम् । इति हेमचन्द्रः । ४ । १३६ ॥ (प्राणदातरि, त्रि । यथा, कथा- सरित्सागरे । २८ । ९ । “अर्थप्रदानमेवाहुः संसारे सुमहत् तपः । अर्थदः प्राणदः प्रोक्तः प्राणा ह्यर्थेषु कीलिताः ॥”)
