सामग्री पर जाएँ

प्राणदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राणदा, स्त्री, (प्राणं जीवनं बलं वा ददातीति । दा कः । टाप् ।) ऋद्धिबृक्षः । हरीतकी । इति राजनिर्घण्टः ॥ (प्राणदात्री । यदुक्तम् । “यशोहरे किमाश्चर्य्यं प्राणदा यमदूतिका ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राणदा¦ स्त्री चक्रदत्तोक्ते गुटिकाभेदे
“सनागरारुष्करवृद्धि-दारकं गुडेन या मोदकमत्युदारकम्। अशेषदुर्नामक-रोगदारकं करोति वृद्धं सहसैव दारकम्। चूर्णे चूर्ण-समो ज्ञेयो मोदके द्विगुणो गुडः। त्रिपलं शृङ्गवेरस्यचतुष्कं मरिचस्य च। पिप्पल्याः कुडर्बार्द्धञ्च चव्यायाःपलमेव च। तालीशपत्रस्य पलं पलार्द्धं केसरस्य च। द्वे पले पिप्पलीमूलादर्द्धकर्षञ्च पत्रकात्। सूक्ष्मैला-कर्षमेकन्तु कर्षं त्वचमृणासयोः। गुडात् पलानि तुत्रिंशच्चूर्णमेकत्र कारयेत्। अक्षप्रामाखा गुडिका प्राण-देति च सा स्मृता”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्राणदा/ प्रा f. Terminalia Chebula L.

प्राणदा/ प्रा mfn. giving breath VS.

"https://sa.wiktionary.org/w/index.php?title=प्राणदा&oldid=365461" इत्यस्माद् प्रतिप्राप्तम्