प्राणनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणनम्, क्ली, (प्र + अन प्राणने + ल्युट् ।) जीव- नम् । इति जटाधरः ॥ (यथा, भागवते । ३ । २६ । ४१ । “क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥” चेष्टनम् । यथा, ऋग्वेदे । १ । ४८ । १० । “विश्वस्य हि प्राणनं जीवनं त्वे वियदुच्छसि सूनरि ॥” “हे सूनरि उषोदेवि विश्वस्य सर्व्वस्य प्राणि- जातस्य प्राणनं चेष्टनं जीवनं प्राणधारणञ्च ।” इति तद्भाष्ये सायनः ॥ प्राणित्यनेनेति । करणे ल्युट् ।) गले, पुं । इति शब्दचन्द्रिका ॥
