प्राणाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणाः, पुं, (प्राणित्येभिरिति । प्र + अन + करणे घञ् ।) असवः । इत्यमरः । २ । ९ । ११९ ॥ तत एतेन मन्त्रेण दद्याद्बै मधुपर्ककम् । पुरुषो मृत्युकाले तु परलोकसुखावहम् ॥ एवं विनिःसृतात् प्राणात् संसारञ्च न गच्छति । नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् ॥ महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥ घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥ तेजोव्ययकरं वास्य तत्सर्व्वं परिकल्प्य च । दक्षिणायां शिरः कृत्वा सलिले तं निधाय च ॥ तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥ गयादीनि च तीर्थानि ये च पुण्याः शिलो- च्चयाः । कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्बरा ॥ कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनी । गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥ वनानि नववाराहं तीर्थं पिण्डारकं तथा । पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा । सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् ॥ प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः । तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा ॥ देवानग्निमुखान् ध्यात्वा गृह्य हस्ते हुताशनम् । प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदाहरेत् ॥” मन्त्रः । “कृत्वा तु दुष्करं कर्म्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ॥ धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः । दहेयं तस्य गात्राणि दैवलोकाय गच्छतु ॥ एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥ चातुर्व्वर्ण्येषु संस्कारमेवम्भवति पुत्त्रक ! । गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥ मृतनाम तथोद्दिश्य दद्यात् पिण्डं महीतले । तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥” इति वराहपुराणे श्राद्धोत्पत्तिनामाध्यायः ॥
