प्राणापानौ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणापानौ, पुं, (प्राणश्च अपानश्च तौ । तदा- ख्यकौ वायू । यथा, विष्णुपुराणे । ६ । ७ । ४१ । “परस्परेणाभिभवं प्राणापानौ यदानिलौ ॥”) अश्विनीकुमारौ । यथा, -- “प्राणापानौ कथं देवावश्विनौ संबभूवतुः ॥” इति प्रजापालप्रश्ने । महातपा उवाच । “तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसा । बीजं निर्व्वापयामास तज्जलं तद्द्विधापतत् ॥ तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा । वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः ॥ तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ । ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ ॥” इति वाराहे अश्विनोत्पत्तिनामाध्यायः ॥
