प्राणायामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणायामः, पुं, (प्राणस्य वायुविशेषस्य आयामो रोधः । यद्वा, प्राण आयम्यतेऽनेनेति । आ + यम् + करणे घञ् ।) योगाङ्गविशेषः । (यथा, भागवते । ३ । २८ । ११ । “प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्वि- षान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥”) तत्राङ्गुलिनियमो ज्ञानार्णवे । “कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥” स द्बिविधः । सगर्भो निर्गर्भश्च । तथा च । सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेदिति । मात्रा च । “वामजानुनि तद्धस्तभ्रामणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः ॥” अथ प्राणायामः । मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडशवारजपेन वामनासापुटे वायुं पूरयेत् । तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्य द्बात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्द्दक्षिणे- नापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् । पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् । तथा च कालीहृदये । “प्राणायामत्रयं कुर्य्यान्मूलेन प्रणवेन वा । अथवा मन्त्रबीजेन यथोक्तविधिना सुधीरिति ॥” सारसमुच्चयेऽपि । “विपरीतमतो विदधीत बुधः पुनरेव तु तद्बिपरीतकमिति ॥” यौगिके पुनर्मात्रानियमः । तथा च गौतमीये । “मन्त्रः प्राणायामः प्रोक्तो यौगिकं कथयामि ते । पूरयेद्वामया विद्वान् मात्राषोडशसंख्ययेति ॥” यद्बा, चतुःषोडशाष्टवारजपेन पूरकादिकं कुर्य्यात् । अथवा एकचतुर्द्विवारेण । तथा च तन्त्रान्तरे । “पूरयेत् षोडशभिर्व्वायुं धारयेत्तच्चतुर्गुणैः । रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः ॥” तदशक्तौ तच्चतुर्थमेव प्राणस्य संयमः । अस्य नित्यत्वमाह तत्रैव । “प्राणायामं विना मन्त्रपूजने नहि योग्यता ॥” गोपाले तु विशेषो यथा, -- कामबीजस्यैकवारजपेन दक्षिणनासया वायुं रेचयेत् । पुनः सप्तवारजपेन वामनासया वायुं पूरयेत् । नासापुटौ धृत्वा विंशतिवारजपेन वायुं कुम्भयेत् । पुनर्वामेन रेचयेत् । दक्षि- ततस्त्वभ्यधिकं नास्ति तपः परमपावनम् ॥ प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना । यः कुर्य्यात् प्रयतो नित्यं प्राणायामस्तु तत्समः ॥ निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् । त्रिभिः शरीरं सकलं प्राणायामेन शुद्ध्यति ॥ आकेशादानखाग्राच्च तपस्तप्येत् सुदारुणम् । आत्मानं शोधयेद्यस्तु प्राणायामैः पुनः पुनः ॥ श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः । प्राणायामशतं कृत्वा मुच्यते सर्व्वकिल्विषैः ॥” इत्यग्निपुराणम् ॥
