प्राणाहुति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणाहुति¦ स्त्री प्राणरूपेभ्योऽग्निभ्य आहुतिः। भोजनात्प्राक् गृहस्थकर्त्तव्ये प्राणरूपाग्न्युद्देश्यकाहुतौ तत्-प्रकारच आह्नि॰ त॰ दर्शितो यथाछन्दोगपरिशिष्टे
“प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहा प्रण-वसंयुताः। पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषुच”। प्राणांहुतिमुद्रामाह शौनकः
“तर्जनीमध्यमाङ्गु-ष्ठैर्लग्ना प्राणाहुतिर्भवेत्। मध्यमानामिकाङ्गुष्ठैरपानेजुहुयात्ततः। कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुया-द्धविः। तर्जनीन्तु बहिष्कृत्वा उदाने जुहुयात्ततः। समाने सर्बहस्तेन समुदायाहुतिर्भवेत्”। स्मृत्यर्थसारे
“प्राणाहुतौ घृताभावे पश्चात् भुञ्जीत नो घृतम्” अत्रपाठक्रमेण प्राणापानव्यानोदानसमानरूपेभ्य आहुति-रुक्ता। वैश्वानरविदस्तु छान्दो॰ उ॰ अन्यक्रम उक्तो यथा
“तद्यद्भक्त प्रथममागच्छे त्तद्धोमीयं, स यां प्रथमामाहुतिंजुहुयात्तां जुहुवात् प्रणाय स्वाहेति प्राणस्तुप्यति”। अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति[Page4519-b+ 38] व्यानस्तृप्यति”।
“अथ यां तृतीयां जुहुयात्ता जुहुया-दषनाय स्वाहेत्यपानस्तृप्यति”।
“अथ यां चतुर्थीं जुहु-यात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति”।
“अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्यु-दानस्तृप्यति”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राणाहुति/ प्रा f. an oblation to the 5 प्रा-णs A.
