प्रातःकृत्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रातःकृत्यम्, क्ली, (प्रातः प्रभातकालस्य कृत्यं कर्त्तव्या क्रिया ।) प्रभातकर्त्तव्यकर्म्म । तदनुष्ठानं यथा, “ब्राह्मे मुहूर्त्ते उत्थाय धर्म्ममर्थञ्च चिन्तयेत् । कायक्लेशन्तदुद्भूतं ध्यायेत्तु मनसेश्वरम् ॥ ब्रह्माण्डपुराणे । “कर्म्मादौ तिलकं कुर्य्याद्रूपं तद्वैष्णवं परम् । गोप्रदानं जपो होमः स्वाध्यायः पितृतर्पणम् भस्मीभवति तत्सर्व्वमूर्द्ध्वपुण्ड्रं विना कृतम् ॥” ब्राह्मे । “अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् अनामिकार्थदा नित्यं मुक्तिदा च प्रदेशिनी ॥ व्यासः । “जाह्नवीतीरसम्भूतां मृदं मूर्द्ध्ना बिभर्त्ति यः । बिभर्त्ति रूपं सोऽर्कस्य तमोनाशाय केवलम् ॥” गीपीचन्दनमाह शातातपः । “गोमतीतीरसम्भूतां गोपीदेहसमुद्भवाम् । मृदं मूर्द्ध्ना वहेद्यस्तु सर्व्वपापैः प्रमुच्यते ॥” ब्रह्माण्डपुराणे । “ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा । तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया ॥ ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् । अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः ॥” * ॥ आतुराणान्तु । “अशिरस्कं भवेत स्नानं स्नानाशक्तौ च कर्म्मि- णाम् । आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः ॥” इति जावालवचनात् शिरो विहाय गात्रप्रक्षा- लनम् । तदशक्तावार्द्रवाससा गात्रमार्जनं कुर्य्यात् तदनन्तरं सन्ध्यां कुर्य्यात् । एतत्परमेव प्रातःसन्ध्यां ततः कुर्य्यात् दन्तधावनपूर्ब्बकमिति याज्ञवल्क्यवचनम् । इत्याह्निकाचारतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रातःकृत्य¦ न॰
७ त॰। शास्त्रविहिते प्रातःकर्त्तव्ये कर्मणितच्च आचारशब्दे
६३
३ पृ॰ दर्शितम्। एवमन्यत्रापि यथा-यथं नानाशास्त्रे उक्तं दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रातःकृत्य¦ n. (-त्यं) Morning duty or ceremonies, worship, ablution, puri- fication, &c. E. प्रातर्, and कृत्य to be done.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रातःकृत्य/ प्रातः--कृत्य n. N. of wk.