प्रातःस्नानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रातःस्नानम्, क्ली, (प्रातः प्रभातकाले यत् स्नानम् ।) प्रभातकर्त्तव्यावगाहनादि । यथा, गारुडे ५० अः । “उषःकाले तु संप्राप्ते कृत्वा चावश्यकं बुधः । स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥ प्रातःस्नानेन पूयन्ते येऽपि पापकृतो जनाः । तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत् ॥ प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् । मुखे सुप्तस्य सततं लालाद्याः संस्रवन्ति हि ॥ अतो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः । अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ॥ प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः । न च स्नानं विना पुंसां प्राशस्त्यं कर्म्म संस्मृ- तम् । होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ अशक्तावशिरस्कन्तु स्नानमस्य विधीयते ॥” अपि च गारुडे २१५ अध्याये । “प्रातःसंक्षेपतः स्नानं मध्याह्ने विधिविस्तरम् । प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ॥ यतेस्त्रिसवनं प्रोक्तं सकृत्तु ब्रह्मचारिणः ॥” अपि च । “उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ । प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥ यत् फलं द्बादशाब्दानि प्राजापत्यैः कृतैर्भवेत् । प्रातःस्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः ॥ य इच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् । प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ ॥ षट्तिली माघमासन्तु प्रातःस्नायी हविष्यभुक् । अतिपापं महाघोरं मासादेव व्यपोहति ॥ मातरं पितरञ्चापि भ्रातरं सुहृदं गुरुम् । समुद्दिश्य निमज्जेत द्वादशांशं लमेत्तु सः ॥”
