सामग्री पर जाएँ

प्रातिपदिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रातिपदिकः, पुं, (प्रतिपदि तिथौ भव इति । प्रतिपद् + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) अग्निः । यथा, -- “इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् । उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ॥ यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥ ब्रह्मोवाच । देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम ! । आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥ त्वत्पदात् प्रातिपदिकं सम्भविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥” इति वराहपुराणम् ॥ (प्रतिपदे धातुभिन्नपदे भव इति । प्रति- पद + ठक् ।) नाम्नि, क्ली । यथा । अधातुविभ- क्त्यर्थवत् प्रातिपदिकम् । इति सुपद्मव्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रातिपदिकः&oldid=151969" इत्यस्माद् प्रतिप्राप्तम्