सामग्री पर जाएँ

प्रादुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रादुः, [स्] व्य, (प्रात्तीति । प्र + अद् + “बाहु- लकाददेरप्युसिप्रत्ययः ।” उणा० २ । ११८ । इत्यत्र उज्ज्वलदत्तोक्त्या उसिः ।) नाम । प्राकाश्यम् । स्फुटत्वम् । तत्पर्य्यायः । आविः २ । यथा । प्रादुरासीत् । आविर्भूतः । इत्यमर- भरतौ ॥ (यथा, रघुः । ११ । १५ । “ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाच्छविः । ताडका चलकपालकुण्डला कालिकेव निविडा वलाकिनी ॥”) प्रकाशः । सम्भाव्यम् । वृत्तिः । इति शब्दरत्ना- वली ॥

"https://sa.wiktionary.org/w/index.php?title=प्रादुः&oldid=151988" इत्यस्माद् प्रतिप्राप्तम्