प्राप्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्राप्यम्, त्रि, (प्र + आप् + ण्यत् ।) प्राप्तव्यम् । तत्पर्य्यायः । गम्यम् २ समासाद्यम् ३ । इत्य- मरः । ३ । १ । ९२ ॥ (यथा, मार्कण्डेये । ६२ । २० । “मयैषा सानुरागेण बहुशः प्रार्थिता सती । निराकृतवती सेयमद्य पाप्या भविष्यति ॥” व्य, प्र + आप् + ल्यप् । यथा, मेघदूते । “प्राप्यावन्तीमुदयनकथाकोविदग्रामवृद्धान् ॥”)
