प्रामाण्यवादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रामाण्यवादः, पुं, (प्रामाण्यस्य वादः कथनम् ।) प्रमाकरणताकथनम् । तद्वति तत्प्रकारकत्व- प्रमात्वकथनम् । चिन्तामणिन्यायग्रन्थविशेषः । इति पूर्ब्बाचार्य्याः ॥ स यथा । अथ जगदेव पङ्कनिमग्नमुद्दिधीर्षुरष्टादशसु विद्यास्थानेष्वभ्य- र्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय । तत्र प्रेक्षावत् प्रवृत्त्यर्थं प्रमाणादि- पदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्यादावसूत्र- यत् । तेषु प्रमाणाधीना सर्व्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यते । इत्यादि गङ्गेशो- पाध्यायः ॥
