प्रारब्धम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रारब्धम्, क्ली, (प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।) प्रालब्धम् । शरीरारम्भकादृष्टविशेषः । यथा, -- “प्रारब्धकर्म्मणां भोगादेव क्षयः ॥” इति स्मृतिः । “प्रारब्धमश्नन्नभिमानशून्यः ।” इति श्रीभागवतम् ॥ “प्रारब्धकर्म्मविक्षेपाद्बासना तु न नश्यति ॥” इति भगवद्गीतायां मधुसूदनसरस्वती च ॥ (प्र + आ + रभ् + कर्म्मणि क्तः । कृतारम्भे, त्रि । यथा, रघौ । १४ । ७ । “अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्त्तयामासुरमात्यवृद्धा- स्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥”)
