सामग्री पर जाएँ

प्रारम्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रारम्भः, पुं, (प्र + आ + रभ् + भावे घञ् । मुम् च ।) प्रकर्षेण आरम्भः । यथा, स्मृतिः । “प्रारम्भे कर्म्मणां विप्रः पुण्डरीकं स्मरेद्धरिम् ॥” (प्रारभ्यते इति । प्र + आ + रभ् + कर्म्मणि घञ् । मुम्च । कर्म्म । यथा, मार्कण्डेयपुराणे । ५१ । १७ । “शुभाशुभञ्च कुशलैः कुमारोऽन्यो ब्रवीति वै । तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च ॥” प्रकृष्ट आरम्भो योगो यस्येति विग्रहे । योगी । यथा, रघुः । १० । ९ । “प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रारम्भः [prārambhḥ], 1 Beginning, commencement; प्रारम्भे$पि त्रियामा तरुणयति निजं नीलिमानं वनेषु Māl.5.6; R.1.9;18.49.

An undertaking, deed, enterprize; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.

"https://sa.wiktionary.org/w/index.php?title=प्रारम्भः&oldid=369123" इत्यस्माद् प्रतिप्राप्तम्